Sukta 1.85
तेऽवर्धन्त स्वतवसो महित्वना नाकं तस्थुरुरु चक्रिरे सदः । विष्णुर्यद्धावद्वृषणं मदच्युतं वयो न सीदन्नधि बर्हिषि प्रिये ॥
ते॑ऽवर्धन्त॒ स्वत॑वसो महित्व॒ना नाकं॑ त॒स्थुरु॒रु च॑क्रिरे॒ सद॑: । विष्णु॒र्यद्धाव॒द्वृष॑णं मद॒च्युतं॒ वयो॒ न सी॑द॒न्नधि॑ ब॒र्हिषि॑ प्रि॒ये ॥
té ’vardhanta svátavaso mahitvánā nā́kaṃ tasthur urú cakrire sádaḥ | víṣṇur yád dhā́vad vṛ́ṣaṇaṃ madacyútam váyo ná sī́dann ádhi bárhiṣi priyé ||
They, self-powered in their own force, grew vast by their greatness; they took their station in the heaven and made wide their seat of being. And when Vishnu set the impetuous Bull in motion—he who does not fall from the ecstasy—they settled, like vital energies, upon the beloved sacred grass (the field prepared for the offering within).
ते । अ॒व॒र्ध॒न्त॒ । स्वऽत॑वसः । म॒हि॒ऽत्व॒ना । आ । नाक॑म् । त॒स्थुः । उ॒रु । च॒क्रि॒रे॒ । सदः॑ । विष्णुः॑ । यत् । ह॒ । आव॑त् । वृष॑णम् । म॒द॒ऽच्युत॑म् । वयः॑ । न । स्द॒न् । अधि॑ । ब॒र्हिषि॑ । प्रि॒ये ॥ते । अवर्धन्त । स्वतवसः । महित्वना । आ । नाकम् । तस्थुः । उरु । चक्रिरे । सदः । विष्णुः । यत् । ह । आवत् । वृषणम् । मदच्युतम् । वयः । न । स्दन् । अधि । बर्हिषि । प्रिये ॥te | avardhanta | sva-tavasaḥ | mahi-tvanā | ā | nākam | tasthuḥ | uru | cakrire | sadaḥ | viṣṇuḥ | yat | ha | āvat | vṛṣaṇam | mada-cyutam | vayaḥ | na | sdan | adhi | barhiṣi | priye