Sukta 1.85
आ वो वहन्तु सप्तयो रघुष्यदो रघुपत्वानः प्र जिगात बाहुभिः । सीदता बर्हिरुरु वः सदस्कृतं मादयध्वं मरुतो मध्वो अन्धसः ॥
आ वो॑ वहन्तु॒ सप्त॑यो रघु॒ष्यदो॑ रघु॒पत्वा॑न॒: प्र जि॑गात बा॒हुभि॑: । सीद॒ता ब॒र्हिरु॒रु व॒: सद॑स्कृ॒तं मा॒दय॑ध्वं मरुतो॒ मध्वो॒ अन्ध॑सः ॥
ā́ vo vahantu saptáyo raghuṣyádo raghu-pátvānaḥ prá jigāta bā́hubhiḥ | sī́datā bárhir urú vaḥ sádaḥ-kṛtáṃ mā́dayadhvaṃ maruto mádhvo ándhasaḥ ||
Let the seven swift steeds bring you here—quick to mount, swift to fly; come forward with your arms of power. Sit upon the wide sacred grass, upon the seat prepared for you; O Maruts, intoxicate yourselves with the honeyed essence, the delight that feeds the soul.
आ । वः॒ । व॒ह॒न्तु॒ । सप्त॑यः । र॒घु॒ऽस्यदः॑ । र॒घु॒ऽपत्वा॑नः । प्र । जि॒गा॒त॒ । बा॒हुऽभिः॑ । सीद॑ता । ब॒र्हिः । उ॒रु । वः॒ । सदः॑ । कृ॒तम् । मा॒दय॑ध्वम् । म॒रु॒तः॒ । मध्वः॑ । अन्ध॑सः ॥आ । वः । वहन्तु । सप्तयः । रघुस्यदः । रघुपत्वानः । प्र । जिगात । बाहुभिः । सीदता । बर्हिः । उरु । वः । सदः । कृतम् । मादयध्वम् । मरुतः । मध्वः । अन्धसः ॥ā | vaḥ | vahantu | saptayaḥ | raghu-syadaḥ | raghu-patvānaḥ | pra | jigāta | bāhu-bhiḥ | sīdatā | barhiḥ | uru | vaḥ | sadaḥ | kṛtam | mādayadhvam | marutaḥ | madhvaḥ | andhasaḥ