Sukta 1.85
प्र यद्रथेषु पृषतीरयुग्ध्वं वाजे अद्रिं मरुतो रंहयन्तः । उतारुषस्य वि ष्यन्ति धाराश्चर्मेवोदभिर्व्युन्दन्ति भूम ॥
प्र यद्रथे॑षु॒ पृष॑ती॒रयु॑ग्ध्वं॒ वाजे॒ अद्रिं॑ मरुतो रं॒हय॑न्तः । उ॒तारु॒षस्य॒ वि ष्य॑न्ति॒ धारा॒श्चर्मे॑वो॒दभि॒र्व्यु॑न्दन्ति॒ भूम॑ ॥
prá yád rathéṣu pṛ́ṣatīr áyugdhvaṃ vā́je ádrim maruto raṃháyantaḥ | utā́ruṣásya ví ṣyanti dhā́rāś cármevódabhír vyúndanti bhū́ma ||
When on your chariots you yoked the dappled steeds and in the plenitude of force drove the stone onward, O Maruts—then the streams of the ruddy light pour out; as with waters from a hide they drench and spread over the wide earth of our being.
प्र । यत् । रथे॑षु । पृष॑तीः । अयु॑ग्ध्वम् । वाजे॑ । अद्रि॑म् । म॒रु॒तः॒ । रं॒हय॑न्तः । उ॒त । अ॒रु॒षस्य॑ । वि । स्य॒न्ति॒ । धाराः॑ । चर्म॑ऽइव । उ॒दऽभिः॑ । वि । उ॒न्दन्ति॑ । भूम॑ ॥प्र । यत् । रथेषु । पृषतीः । अयुग्ध्वम् । वाजे । अद्रिम् । मरुतः । रंहयन्तः । उत । अरुषस्य । वि । स्यन्ति । धाराः । चर्मइव । उदभिः । वि । उन्दन्ति । भूम ॥pra | yat | ratheṣu | pṛṣatīḥ | ayugdhvam | vāje | adrim | marutaḥ | raṃhayantaḥ | uta | aruṣasya | vi | syanti | dhārāḥ | carma-iva | uda-bhiḥ | vi | undanti | bhūma