Sukta 1.85
वि ये भ्राजन्ते सुमखास ऋष्टिभिः प्रच्यावयन्तो अच्युता चिदोजसा । मनोजुवो यन्मरुतो रथेष्वा वृषव्रातासः पृषतीरयुग्ध्वम् ॥
वि ये भ्राज॑न्ते॒ सुम॑खास ऋ॒ष्टिभि॑: प्रच्या॒वय॑न्तो॒ अच्यु॑ता चि॒दोज॑सा । म॒नो॒जुवो॒ यन्म॑रुतो॒ रथे॒ष्वा वृष॑व्रातास॒: पृष॑ती॒रयु॑ग्ध्वम् ॥
ví yé bhrā́jante súmakhāsa ṛṣṭíbhīḥ prá cyāváyanto acyútā cid ójasā | manójavo yán maruto rathéṣv ā́ vṛ́ṣavrātāsaḥ pṛ́ṣatīr áyugdhvam ||
They blaze forth, the fair-faced, with their spears, shaking even the unshakable by their force. O Maruts, when mind-swift, on your chariots, you yoked the dappled steeds, you came as a bull-host of irresistible will.
वि । ये । भ्राज॑न्ते । सुऽम॑खासः । ऋ॒ष्टिऽभिः॑ । प्र॒ऽच्य॒वय॑न्तः । अच्यु॑ता । चि॒त् । ओज॑सा । म॒नः॒ऽजुवः॑ । यत् । म॒रु॒तः॒ । रथे॑षु । आ । वृष॑ऽव्रातासः । पृष॑तीः । अयु॑ग्ध्वम् ॥वि । ये । भ्राजन्ते । सुमखासः । ऋष्टिभिः । प्रच्यवयन्तः । अच्युता । चित् । ओजसा । मनःजुवः । यत् । मरुतः । रथेषु । आ । वृषव्रातासः । पृषतीः । अयुग्ध्वम् ॥vi | ye | bhrājante | su-makhāsaḥ | ṛṣṭi-bhiḥ | pra-cyavayantaḥ | acyutā | cit | ojasā | manaḥ-juvaḥ | yat | marutaḥ | ratheṣu | ā | vṛṣa-vrātāsaḥ | pṛṣatīḥ | ayugdhvam