Sukta 1.85
गोमातरो यच्छुभयन्ते अञ्जिभिस्तनूषु शुभ्रा दधिरे विरुक्मतः । बाधन्ते विश्वमभिमातिनमप वर्त्मान्येषामनु रीयते घृतम् ॥
गोमा॑तरो॒ यच्छु॒भय॑न्ते अ॒ञ्जिभि॑स्त॒नूषु॑ शु॒भ्रा द॑धिरे वि॒रुक्म॑तः । बाध॑न्ते॒ विश्व॑मभिमा॒तिन॒मप॒ वर्त्मा॑न्येषा॒मनु॑ रीयते घृ॒तम् ॥
gómātaro yác chubháyante añjíbhis tanū́ṣu chubhrā́ dadhire virúkmataḥ | bā́dhante víśvam abhimā́tinam ápa vartmā́ny eṣā́m ánu rī́yate ghṛtám ||
When the cow-mothered powers adorn their bodies with shining ornaments and put on bright gold, they drive away every assailing hostility. Along their paths there flows the clarified light-essence, as if sweetness of luminous mind were streaming behind them.
गोऽमा॑तरः॑ । यत् । शु॒भय॑न्ते । अ॒ञ्जिऽभिः॑ । त॒नूषु॑ । शु॒भ्राः । द॒धि॒रे॒ । वि॒रुक्म॑तः । बाध॑न्ते । विश्व॑म् । अ॒भि॒ऽमा॒तिन॑म् । अप॑ । वर्त्मा॑नि । ए॒षा॒म् । अनु॑ । री॒य॒ते॒ । घृ॒तम् ॥गोमातरः । यत् । शुभयन्ते । अञ्जिभिः । तनूषु । शुभ्राः । दधिरे । विरुक्मतः । बाधन्ते । विश्वम् । अभिमातिनम् । अप । वर्त्मानि । एषाम् । अनु । रीयते । घृतम् ॥go--mātaraḥ | yat | śubhayante | añji-bhiḥ | tanūṣu | śubhrāḥ | dadhire | virukmataḥ | bādhante | viśvam | abhi-mātinam | apa | vartmāni | eṣām | anu | rīyate | ghṛtam