Sukta 1.85
त उक्षितासो महिमानमाशत दिवि रुद्रासो अधि चक्रिरे सदः । अर्चन्तो अर्कं जनयन्त इन्द्रियमधि श्रियो दधिरे पृश्निमातरः ॥
त उ॑क्षि॒तासो॑ महि॒मान॑माशत दि॒वि रु॒द्रासो॒ अधि॑ चक्रिरे॒ सद॑: । अर्च॑न्तो अ॒र्कं ज॒नय॑न्त इन्द्रि॒यमधि॒ श्रियो॑ दधिरे॒ पृश्नि॑मातरः ॥
tá ukṣitā́so mahimā́nam āśata diví rudrā́so ádhi cakriré sádaḥ | árcanto arkáṃ jánayanta indriyám ádhi śríyo dadhire pṛ́śnimātaraḥ ||
Those vigorous ones attained their greatness; the Rudras set their seat in heaven. Chanting, they bring forth the flaming hymn and engender the power of mastery; upon them they put the splendours—children of Pr̥śni, the mighty Mother-force.
ते । उ॒क्षि॒तासः॑ । म॒हि॒मान॑म् । आ॒श॒त॒ । दि॒वि । रु॒द्रासः॑ । अधि॑ । च॒क्रि॒रे॒ । सदः॑ । अर्च॑न्तः । अ॒र्कम् । ज॒नय॑न्तः । इ॒न्द्रि॒यम् । अधि॑ । श्रियः॑ । द॒धि॒रे॒ । पृश्नि॑ऽमातरः ॥ते । उक्षितासः । महिमानम् । आशत । दिवि । रुद्रासः । अधि । चक्रिरे । सदः । अर्चन्तः । अर्कम् । जनयन्तः । इन्द्रियम् । अधि । श्रियः । दधिरे । पृश्निमातरः ॥te | ukṣitāsaḥ | mahimānam | āśata | divi | rudrāsaḥ | adhi | cakrire | sadaḥ | arcantaḥ | arkam | janayantaḥ | indriyam | adhi | śriyaḥ | dadhire | pṛśni-mātaraḥ