Sukta 1.85
प्र ये शुम्भन्ते जनयो न सप्तयो यामन्रुद्रस्य सूनवः सुदंससः । रोदसी हि मरुतश्चक्रिरे वृधे मदन्ति वीरा विदथेषु घृष्वयः ॥
प्र ये शुम्भ॑न्ते॒ जन॑यो॒ न सप्त॑यो॒ याम॑न्रु॒द्रस्य॑ सू॒नव॑: सु॒दंस॑सः । रोद॑सी॒ हि म॒रुत॑श्चक्रि॒रे वृ॒धे मद॑न्ति वी॒रा वि॒दथे॑षु॒ घृष्व॑यः ॥
prá yé śúmbhante jánayo ná saptáyo yā́man rudrásya sū́navaḥ sudáṃsasaḥ | ródasī hí marútaś cakriré vṛdhé mádanti vīrā́ vidáthēṣu ghṛ́ṣvayaḥ ||
Forward move those who adorn themselves like radiant women, like swift coursers—Rudra’s sons of perfect energy. For growth they have fashioned the two worlds; the heroes exult in the assemblies, vehement in their luminous ardour.
प्र । ये । शुम्भ॑न्ते । जन॑यः । न । सप्त॑यः । याम॑न् । रु॒द्रस्य॑ । सू॒नवः॑ । सु॒ऽदंस॑सः । रोद॑सी॒ इति॑ । हि । म॒रुतः॑ । च॒क्रि॒रे । वृ॒धे । मद॑न्ति । वी॒राः । वि॒दथे॑षु । घृष्व॑यः ॥प्र । ये । शुम्भन्ते । जनयः । न । सप्तयः । यामन् । रुद्रस्य । सूनवः । सुदंससः । रोदसी इति । हि । मरुतः । चक्रिरे । वृधे । मदन्ति । वीराः । विदथेषु । घृष्वयः ॥pra | ye | śumbhante | janayaḥ | na | saptayaḥ | yāman | rudrasya | sūnavaḥ | su-daṃsasaḥ | rodasī | hi | marutaḥ | cakrire | vṛdhe | madanti | vīrāḥ | vidatheṣu | ghṛṣvayaḥ