Sukta 1.85
जिह्मं नुनुद्रेऽवतं तया दिशासिञ्चन्नुत्सं गोतमाय तृष्णजे । आ गच्छन्तीमवसा चित्रभानवः कामं विप्रस्य तर्पयन्त धामभिः ॥
जि॒ह्मं नु॑नुद्रेऽव॒तं तया॑ दि॒शासि॑ञ्च॒न्नुत्सं॒ गोत॑माय तृ॒ष्णजे॑ । आ ग॑च्छन्ती॒मव॑सा चि॒त्रभा॑नव॒: कामं॒ विप्र॑स्य तर्पयन्त॒ धाम॑भिः ॥
jihmáṃ nunudre ’vatáṃ tayā diśā́siñcann útsaṃ gótamāya tṛṣṇáje | ā́ gacchantīm ávasā citrábhānavaḥ kā́maṃ víprasya tarpayanta dhā́mabhiḥ ||
They drove away the crookedness that presses downward; by that direction they poured out a spring for Gotama who thirsts. Coming with their help, the bright-flaming ones satisfy the seer’s longing by their powers of luminous dwelling (dhāmas).
जि॒ह्मम् । नु॒नु॒द्रे॒ । अ॒व॒तम् । तया॑ । दि॒शा । असि॑ञ्चन् । उत्स॑म् । गोत॑माय । तृ॒ष्णऽजे॑ । आ । ग॒च्छ॒न्ति॒ । ई॒म् । अव॑सा । चि॒त्रऽभा॑नवः । काम॑म् । विप्र॑स्य । त॒र्प॒य॒न्त॒ । धाम॑ऽभिः ॥जिह्मम् । नुनुद्रे । अवतम् । तया । दिशा । असिञ्चन् । उत्सम् । गोतमाय । तृष्णजे । आ । गच्छन्ति । ईम् । अवसा । चित्रभानवः । कामम् । विप्रस्य । तर्पयन्त । धामभिः ॥jihmam | nunudre | avatam | tayā | diśā | asiñcan | utsam | gotamāya | tṛṣṇa-je | ā | gacchanti | īm | avasā | citra-bhānavaḥ | kāmam | viprasya | tarpayanta | dhāma-bhiḥ