Sukta 1.85
या वः शर्म शशमानाय सन्ति त्रिधातूनि दाशुषे यच्छताधि । अस्मभ्यं तानि मरुतो वि यन्त रयिं नो धत्त वृषणः सुवीरम् ॥
या व॒: शर्म॑ शशमा॒नाय॒ सन्ति॑ त्रि॒धातू॑नि दा॒शुषे॑ यच्छ॒ताधि॑ । अ॒स्मभ्यं॒ तानि॑ मरुतो॒ वि य॑न्त र॒यिं नो॑ धत्त वृषणः सु॒वीर॑म् ॥
yā́ vaḥ śárma śaśamānā́ya sánti tridhā́tūni dāśúṣe yacchatā́dhi | asmábhyaṃ tā́ni maruto ví yanta rayíṃ no dhatta vṛṣaṇaḥ suvī́ram ||
Those shelters of peace that are yours for the striving one—those triple foundations you grant to the giver—bring them here to us, O Maruts. Set in us the plenitude (rayi) rich in heroic power, O strong Bulls.
या । वः॒ । शर्म॑ । श॒श॒मा॒नाय॑ । सन्ति॑ । त्रि॒ऽधातू॑नि । दा॒शुषे॑ । य॒च्छ॒त॒ । अधि॑ । अ॒स्मभ्य॑म् । तानि॑ । म॒रु॒तः॒ । वि । य॒न्त॒ । र॒यिम् । नः॒ । ध॒त्त॒ । वृ॒ष॒णः॒ । सु॒ऽवीर॑म् ॥या । वः । शर्म । शशमानाय । सन्ति । त्रिधातूनि । दाशुषे । यच्छत । अधि । अस्मभ्यम् । तानि । मरुतः । वि । यन्त । रयिम् । नः । धत्त । वृषणः । सुवीरम् ॥yā | vaḥ | śarma | śaśamānāya | santi | tri-dhātūni | dāśuṣe | yacchata | adhi | asmabhyam | tāni | marutaḥ | vi | yanta | rayim | naḥ | dhatta | vṛṣaṇaḥ | su-vīram