Sukta 1.83
यज्ञैरथर्वा प्रथमः पथस्तते ततः सूर्यो व्रतपा वेन आजनि । आ गा आजदुशना काव्यः सचा यमस्य जातममृतं यजामहे ॥
य॒ज्ञैरथ॑र्वा प्रथ॒मः प॒थस्त॑ते॒ तत॒: सूर्यो॑ व्रत॒पा वे॒न आज॑नि । आ गा आ॑जदु॒शना॑ का॒व्यः सचा॑ य॒मस्य॑ जा॒तम॒मृतं॑ यजामहे ॥
yajñáir atharvā́ prathamáḥ pathás tate tátaḥ sū́ryo vratapā́ vénā́ ajani | ā́ gā́ ā́jad uśánā kāvyáḥ sácā yámasya jātám amṛ́taṁ yajāmahe ||
By sacrifices Atharvan first stretched out the paths; then the Sun, the guardian of the law, was born as the Seer. With him came Uśanā Kāvya driving the rays; we worship the deathless that is born in the realm of Yama (the self-mastering).
य॒ज्ञैः । अथ॑र्वा । प्र॒थ॒मः । प॒थः । त॒ते॒ । ततः॑ । सूर्यः॑ । व्र॒त॒ऽपाः । वे॒नः । आ । अ॒ज॒नि॒ । आ । गाः । आ॒ज॒त् । उ॒शना॑ । क॒व्यः । सचा॑ । य॒मस्य॑ । जा॒तम् । अ॒मृत॑म् । य॒जा॒म॒हे॒ ॥यज्ञैः । अथर्वा । प्रथमः । पथः । तते । ततः । सूर्यः । व्रतपाः । वेनः । आ । अजनि । आ । गाः । आजत् । उशना । कव्यः । सचा । यमस्य । जातम् । अमृतम् । यजामहे ॥yajñaiḥ | atharvā | prathamaḥ | pathaḥ | tate | tataḥ | sūryaḥ | vrata-pāḥ | venaḥ | ā | ajani | ā | gāḥ | ājat | uśanā | kavyaḥ | sacā | yamasya | jātam | amṛtam | yajāmahe