Sukta 1.83
बर्हिर्वा यत्स्वपत्याय वृज्यतेऽर्को वा श्लोकमाघोषते दिवि । ग्रावा यत्र वदति कारुरुक्थ्यस्तस्येदिन्द्रो अभिपित्वेषु रण्यति ॥
ब॒र्हिर्वा॒ यत्स्व॑प॒त्याय॑ वृ॒ज्यते॒ऽर्को वा॒ श्लोक॑मा॒घोष॑ते दि॒वि । ग्रावा॒ यत्र॒ वद॑ति का॒रुरु॒क्थ्य१॒॑स्तस्येदिन्द्रो॑ अभिपि॒त्वेषु॑ रण्यति ॥
barhír vā yát svapatyā́ya vṛ́jyate 'rkó vā ślókаm āghóṣate diví | grā́vā yátra vádati kā́rur ukthyàḥ tásyed índro abhipitvéṣu raṇyati ||
Where the sacred seat is spread for the bringing of true progeny, or where the chant is made to resound in heaven; where the pressing-stone speaks and the inspired singer utters the hymn—there indeed Indra takes delight among the intimate fulfillments.
ब॒र्हिः । वा॒ । यत् । सु॒ऽअ॒प॒त्याय॑ । वृ॒ज्यते॑ । अ॒र्कः । वा॒ । श्लोक॑म् । आ॒ऽघोष॑ते । दि॒वि । ग्रावा॑ । यत्र॑ । वद॑ति । का॒रुः । उ॒क्थ्यः॑ । तस्य॑ । इत् । इन्द्रः॑ । अ॒भि॒ऽपि॒त्वेषु॑ । र॒ण्य॒ति॒ ॥बर्हिः । वा । यत् । सुअपत्याय । वृज्यते । अर्कः । वा । श्लोकम् । आघोषते । दिवि । ग्रावा । यत्र । वदति । कारुः । उक्थ्यः । तस्य । इत् । इन्द्रः । अभिपित्वेषु । रण्यति ॥barhiḥ | vā | yat | su-apatyāya | vṛjyate | arkaḥ | vā | ślokam | āghoṣate | divi | grāvā | yatra | vadati | kāruḥ | ukthyaḥ | tasya | it | indraḥ | abhi-pitveṣu | raṇyati