Sukta 1.83
आदङ्गिराः प्रथमं दधिरे वय इद्धाग्नयः शम्या ये सुकृत्यया । सर्वं पणेः समविन्दन्त भोजनमश्वावन्तं गोमन्तमा पशुं नरः ॥
आदङ्गि॑राः प्रथ॒मं द॑धिरे॒ वय॑ इ॒द्धाग्न॑य॒: शम्या॒ ये सु॑कृ॒त्यया॑ । सर्वं॑ प॒णेः सम॑विन्दन्त॒ भोज॑न॒मश्वा॑वन्तं॒ गोम॑न्त॒मा प॒शुं नर॑: ॥
ād aṅgirā́ḥ prathamáṁ dadhire váya iddhā́gnayaḥ śamyā́ ye su-kṛtyáyā | sárvaṁ paṇéḥ sám avindanta bhójanam aśvā́vantaṁ gómantam ā́ paśúṁ náraḥ ||
Then the Angirases first established the plenitude of life; kindled fires they were, who by right skill of working. They won from the Pani the whole enjoyment—rich in horses, rich in rays of light, and the increase of the herds for the human seeker.
आत् । अङ्गि॑राः । प्र॒थ॒मम् । द॒धि॒रे॒ । वयः॑ । इ॒द्धऽअ॑ग्नयः । शम्या॑ । ये । सु॒ऽकृ॒त्यया॑ । सर्व॑म् । प॒णेः । सम् । अ॒वि॒न्द॒न्त॒ । भोज॑नम् । अश्व॑ऽवन्तम् । गोऽम॑न्तम् । आ । प॒शुम् । नरः॑ ॥आत् । अङ्गिराः । प्रथमम् । दधिरे । वयः । इद्धअग्नयः । शम्या । ये । सुकृत्यया । सर्वम् । पणेः । सम् । अविन्दन्त । भोजनम् । अश्ववन्तम् । गोमन्तम् । आ । पशुम् । नरः ॥āt | aṅgirāḥ | prathamam | dadhire | vayaḥ | iddha-agnayaḥ | śamyā | ye | su-kṛtyayā | sarvam | paṇeḥ | sam | avindanta | bhojanam | aśva-vantam | go--mantam | ā | paśum | naraḥ