Sukta 1.83
अधि द्वयोरदधा उक्थ्यं वचो यतस्रुचा मिथुना या सपर्यतः । असंयत्तो व्रते ते क्षेति पुष्यति भद्रा शक्तिर्यजमानाय सुन्वते ॥
अधि॒ द्वयो॑रदधा उ॒क्थ्यं१॒॑ वचो॑ य॒तस्रु॑चा मिथु॒ना या स॑प॒र्यत॑: । असं॑यत्तो व्र॒ते ते॑ क्षेति॒ पुष्य॑ति भ॒द्रा श॒क्तिर्यज॑मानाय सुन्व॒ते ॥
adhí dváyor adadhā ukthyàṁ vácо yata-srúcā mithunā́ yā́ saparyátaḥ | asaṁyattó vraté té kṣeti púṣyati bhadrā́ śaktír yajamānāya sunvaté ||
Upon the two (balanced powers) thou hast set the word fit for the hymn—those twin ladles that serve and adore. Unfettered in thy law of working, the auspicious Power dwells and increases for the sacrificer who presses the Soma.
अधि॑ । द्वयोः॑ । अ॒द॒धाः॒ । उ॒क्थ्य॑म् । वचः॑ । य॒तऽस्रु॑चा । मि॒थु॒ना । या । स॒प॒र्यतः॑ । अस॑म्ऽयत्तः । व्र॒ते । ते॒ । क्षे॒ति॒ । पुष्य॑ति । भ॒द्रा । श॒क्तिः । यज॑मानाय । सु॒न्व॒ते ॥अधि । द्वयोः । अदधाः । उक्थ्यम् । वचः । यतस्रुचा । मिथुना । या । सपर्यतः । असम्यत्तः । व्रते । ते । क्षेति । पुष्यति । भद्रा । शक्तिः । यजमानाय । सुन्वते ॥adhi | dvayoḥ | adadhāḥ | ukthyam | vacaḥ | yata-srucā | mithunā | yā | saparyataḥ | asam-yattaḥ | vrate | te | kṣeti | puṣyati | bhadrā | śaktiḥ | yajamānāya | sunvate