Sukta 1.83
आपो न देवीरुप यन्ति होत्रियमवः पश्यन्ति विततं यथा रजः । प्राचैर्देवासः प्र णयन्ति देवयुं ब्रह्मप्रियं जोषयन्ते वरा इव ॥
आपो॒ न दे॒वीरुप॑ यन्ति हो॒त्रिय॑म॒वः प॑श्यन्ति॒ वित॑तं॒ यथा॒ रज॑: । प्रा॒चैर्दे॒वास॒: प्र ण॑यन्ति देव॒युं ब्र॑ह्म॒प्रियं॑ जोषयन्ते व॒रा इ॑व ॥
ā́po ná devī́r úpa yanti hotríyam aváḥ paśyanti ví-tataṃ yáthā rájaḥ | prācáir devā́saḥ prá nayanti deva-yúṃ bráhma-priyaṃ joṣayante varā́ iva ||
Like goddesses the waters draw near to the priest of the offering; they behold the wide-stretched field as one sees the open space. With forward-leading powers the gods guide the god-seeking one, the lover of the sacred word, and cherish him as bridegrooms cherish a chosen bride.
आपः॑ । न । दे॒वीः । उप॑ । य॒न्ति॒ । हो॒त्रिय॑म् । अ॒वः । प॒श्य॒न्ति॒ । विऽत॑तम् । यथा॑ । रजः॑ । प्रा॒चैः । दे॒वासः॑ । प्र । न॒य॒न्ति॒ । दे॒व॒ऽयुम् । ब्र॒ह्म॒ऽप्रिय॑म् । जो॒ष॒य॒न्ते॒ । व॒राःऽइ॑व ॥आपः । न । देवीः । उप । यन्ति । होत्रियम् । अवः । पश्यन्ति । विततम् । यथा । रजः । प्राचैः । देवासः । प्र । नयन्ति । देवयुम् । ब्रह्मप्रियम् । जोषयन्ते । वराःइव ॥āpaḥ | na | devīḥ | upa | yanti | hotriyam | avaḥ | paśyanti | vi-tatam | yathā | rajaḥ | prācaiḥ | devāsaḥ | pra | nayanti | deva-yum | brahma-priyam | joṣayante | varāḥ-iva