Sukta 1.81
एते त इन्द्र जन्तवो विश्वं पुष्यन्ति वार्यम् । अन्तर्हि ख्यो जनानामर्यो वेदो अदाशुषां तेषां नो वेद आ भर ॥
ए॒ते त॑ इन्द्र ज॒न्तवो॒ विश्वं॑ पुष्यन्ति॒ वार्य॑म् । अ॒न्तर्हि ख्यो जना॑नाम॒र्यो वेदो॒ अदा॑शुषां॒ तेषां॑ नो॒ वेद॒ आ भ॑र ॥
eté ta indra jantávo víśvaṃ puṣyanti vā́ryam | antár hí khyó jánānām aryó védo adā́śuṣāṃ téṣāṃ no véda ā́ bhara ||
These thy peoples, O Indra, foster the whole desirable plenitude. For thou art inwardly renowned among men; as the noble knowing, thou discernest those who give not—bring to us the knowledge of them.
ए॒ते । ते॒ । इ॒न्द्र॒ । ज॒न्तवः॑ । विश्व॑म् । पु॒ष्य॒न्ति॒ । वार्य॑म् । अ॒न्तः । हि । ख्यः । जना॑नाम् । अ॒र्यः । वेदः॑ । अदा॑शुषाम् । तेषा॑म् । नः॒ । वेदः॑ । आ । भ॒र॒ ॥एते । ते । इन्द्र । जन्तवः । विश्वम् । पुष्यन्ति । वार्यम् । अन्तः । हि । ख्यः । जनानाम् । अर्यः । वेदः । अदाशुषाम् । तेषाम् । नः । वेदः । आ । भर ॥ete | te | indra | jantavaḥ | viśvam | puṣyanti | vāryam | antaḥ | hi | khyaḥ | janānām | aryaḥ | vedaḥ | adāśuṣām | teṣām | naḥ | vedaḥ | ā | bhara