Sukta 1.80
इत्था हि सोम इन्मदे ब्रह्मा चकार वर्धनम् । शविष्ठ वज्रिन्नोजसा पृथिव्या निः शशा अहिमर्चन्ननु स्वराज्यम् ॥
इ॒त्था हि सोम॒ इन्मदे॑ ब्र॒ह्मा च॒कार॒ वर्ध॑नम् । शवि॑ष्ठ वज्रि॒न्नोज॑सा पृथि॒व्या निः श॑शा॒ अहि॒मर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
itthā́ hí somá ín máde brahmā́ cakā́ra várdhanam | śáviṣṭha vajrinn ójasā pṛthivyā́ níḥ śaśā́ áhím arcán ánu sva-rā́jyam ||
Thus indeed, in the ecstasy of Soma, the inspired word forged thy increase; O most mighty Vajrin, by thy force thou didst cast out from the earth the coiling Obstructor, chanting forth into thy self-sovereignty.
इ॒त्था । हि । सोमे॑ । इत् । मदे॑ । ब्र॒ह्मा । च॒कार॑ । वर्ध॑नम् । शवि॑ष्ठ । व॒ज्रि॒न् ओज॑सा । पृ॒थि॒व्याः । निः । श॒शाः॒ । अहि॑म् । अर्च॑न् । अनु॑ । स्व॒ऽराज्य॑म् ॥इत्था । हि । सोमे । इत् । मदे । ब्रह्मा । चकार । वर्धनम् । शविष्ठ । वज्रिन् ओजसा । पृथिव्याः । निः । शशाः । अहिम् । अर्चन् । अनु । स्वराज्यम् ॥itthā | hi | some | it | made | brahmā | cakāra | vardhanam | śaviṣṭha | vajrin ojasā | pṛthivyāḥ | niḥ | śaśāḥ | ahim | arcan | anu | sva-rājyam