Sukta 1.8
एवा हि ते विभूतय ऊतय इन्द्र मावते । सद्यश्चित्सन्ति दाशुषे ॥
ए॒वा हि ते॒ विभू॑तय ऊ॒तय॑ इन्द्र॒ माव॑ते । स॒द्यश्चि॒त्सन्ति॑ दा॒शुषे॑ ॥
evā́ hí te vibhū́taya ūtáya indra mā́vate | sadyáś cit sánti dāśúṣe ||
Even so indeed, O Indra, thy manifold powers and thy helpful succours are at once present for the giver— for him who grows in thy greatness.
ए॒व । हि । ते॒ । विऽभू॑तयः । ऊ॒तयः॑ । इ॒न्द्र॒ । माऽव॑ते । स॒द्यः । चि॒त् । सन्ति॑ । दा॒शुषे॑ ॥एव । हि । ते । विभूतयः । ऊतयः । इन्द्र । मावते । सद्यः । चित् । सन्ति । दाशुषे ॥eva | hi | te | vi-bhūtayaḥ | ūtayaḥ | indra | māvate | sadyaḥ | cit | santi | dāśuṣe