Sukta 1.8
एवा ह्यस्य काम्या स्तोम उक्थं च शंस्या । इन्द्राय सोमपीतये ॥
ए॒वा ह्य॑स्य॒ काम्या॒ स्तोम॑ उ॒क्थं च॒ शंस्या॑ । इन्द्रा॑य॒ सोम॑पीतये ॥
evā hy asya kāmyā stóma uktháṃ ca śáṃsyā | índrāya sómapītaye ||
For thus indeed, for him (Indra), the desired hymn of affirmation and the inspired utterance are to be proclaimed—unto Indra, the Soma-drinker, that the inner delight may be fully received and mastered.
ए॒व । हि । अ॒स्य॒ । काम्या॑ । स्तोमः॑ । उ॒क्थम् । च॒ । शंस्या॑ । इन्द्रा॑य । सोम॑ऽपीतये ॥एव । हि । अस्य । काम्या । स्तोमः । उक्थम् । च । शंस्या । इन्द्राय । सोमपीतये ॥eva | hi | asya | kāmyā | stomaḥ | uktham | ca | śaṃsyā | indrāya | soma-pītaye