Sukta 1.8
यः कुक्षिः सोमपातमः समुद्र इव पिन्वते । उर्वीरापो न काकुदः ॥
यः कु॒क्षिः सो॑म॒पात॑मः समु॒द्र इ॑व॒ पिन्व॑ते । उ॒र्वीरापो॒ न का॒कुद॑: ॥
yaḥ kukṣíḥ somapā́tamaḥ samudrá iva pínvate | urvī́r ā́po na kākúdaḥ ||
He whose belly is the most consummate drinker of Soma—he swells like an ocean, heaving and enlarging; like wide waters he rises in an unbroken uplift, bearing the force onward within us.
यः । कु॒क्षिः । सो॒म॒ऽपात॑मः । स॒मु॒द्रःऽइ॑व । पिन्व॑ते । उ॒र्वीः । आपः॑ । न । का॒कुदः॑ ॥यः । कुक्षिः । सोमपातमः । समुद्रःइव । पिन्वते । उर्वीः । आपः । न । काकुदः ॥yaḥ | kukṣiḥ | soma-pātamaḥ | samudraḥ-iva | pinvate | urvīḥ | āpaḥ | na | kākudaḥ