Sukta 1.8
महाँ इन्द्रः परश्च नु महित्वमस्तु वज्रिणे । द्यौर्न प्रथिना शवः ॥
म॒हाँ इन्द्र॑: प॒रश्च॒ नु म॑हि॒त्वम॑स्तु व॒ज्रिणे॑ । द्यौर्न प्र॑थि॒ना शव॑: ॥
mahā́n índraḥ páraś ca nú mahi-tvám astu vajríṇe | dyaúr na prathinā́ śávaḥ ||
Mighty is Indra; let there now be for the Thunder-bearer a greatness that surpasses—wide like Heaven in its spreading force: a power that expands the being.
म॒हान् । इन्द्रः॑ । प॒रः । च॒ । नु । म॒हि॒ऽत्वम् । अ॒स्तु॒ । व॒ज्रिणे॑ । द्यौः । न । प्र॒थि॒ना । शवः॑ ॥महान् । इन्द्रः । परः । च । नु । महित्वम् । अस्तु । वज्रिणे । द्यौः । न । प्रथिना । शवः ॥mahān | indraḥ | paraḥ | ca | nu | mahi-tvam | astu | vajriṇe | dyauḥ | na | prathinā | śavaḥ