Sukta 1.79
स इधानो वसुष्कविरग्निरीळेन्यो गिरा । रेवदस्मभ्यं पुर्वणीक दीदिहि ॥
स इ॑धा॒नो वसु॑ष्क॒विर॒ग्निरी॒ळेन्यो॑ गि॒रा । रे॒वद॒स्मभ्यं॑ पुर्वणीक दीदिहि ॥
sá idhānó vásuṣ kavír agnír īḷényo girā́ | révad asmábhyaṁ puru-aṇīka dīdihi ||
He, kindled, the good treasure, the seer—Agni worthy of invocation by the word—shine for us with abundance, O many-faced One; blaze forth in our front, leading the formation of the being.
सः । इ॒धा॒नः । वसुः॑ । क॒विः । अ॒ग्निः । ई॒ळेन्यः॑ । गि॒रा । रे॒वत् । अ॒स्मभ्य॑म् । पु॒रु॒ऽअ॒णी॒क॒ । दी॒दि॒हि॒ ॥सः । इधानः । वसुः । कविः । अग्निः । ईळेन्यः । गिरा । रेवत् । अस्मभ्यम् । पुरुअणीक । दीदिहि ॥saḥ | idhānaḥ | vasuḥ | kaviḥ | agniḥ | īḷenyaḥ | girā | revat | asmabhyam | puru-aṇīka | dīdihi