Sukta 1.79
अग्ने वाजस्य गोमत ईशानः सहसो यहो । अस्मे धेहि जातवेदो महि श्रवः ॥
अग्ने॒ वाज॑स्य॒ गोम॑त॒ ईशा॑नः सहसो यहो । अ॒स्मे धे॑हि जातवेदो॒ महि॒ श्रव॑: ॥
agné vā́jasya gómatá ī́śānaḥ sahaso yáho | asmè dhéhi jātavedo máhi śrávaḥ ||
O Agni, lord of the vāja that is rich in illumining rays, O might of forceful energy, place in us, O Jātavedas, a great hearing—wide fame of the soul that receives the Truth.
अग्ने॑ । वाज॑स्य । गोम॑तः । ईशा॑नः । स॒ह॒सः॒ । य॒हो॒ इति॑ । अ॒स्मे इति॑ । धे॒हि॒ । जा॒त॒ऽवे॒दः॒ । महि॑ । श्रवः॑ ॥अग्ने । वाजस्य । गोमतः । ईशानः । सहसः । यहो इति । अस्मे इति । धेहि । जातवेदः । महि । श्रवः ॥agne | vājasya | gomataḥ | īśānaḥ | sahasaḥ | yaho iti | asme iti | dhehi | jāta-vedaḥ | mahi | śravaḥ