Sukta 1.79
यदीमृतस्य पयसा पियानो नयन्नृतस्य पथिभी रजिष्ठैः । अर्यमा मित्रो वरुणः परिज्मा त्वचं पृञ्चन्त्युपरस्य योनौ ॥
यदी॑मृ॒तस्य॒ पय॑सा॒ पिया॑नो॒ नय॑न्नृ॒तस्य॑ प॒थिभी॒ रजि॑ष्ठैः । अ॒र्य॒मा मि॒त्रो वरु॑ण॒: परि॑ज्मा॒ त्वचं॑ पृञ्च॒न्त्युप॑रस्य॒ योनौ॑ ॥
yád īm ṛtásya páyasā píyāno náyan ṛtásya pathíbhi rajiṣṭháiḥ | aryamā́ mitró váruṇaḥ párijmā tvácaṁ pṛñcánty úparasya yónau ||
When he, growing full with the milk of Ṛta, leads by the swiftest paths of Ṛta, then Aryaman, Mitra, Varuṇa—moving all around—anoint his skin in the womb of the upper world: they establish his luminous form in the Truth.
यत् ई॒म् । ऋ॒तस्य॑ । पय॑सा । पिया॑नः । नय॑न् । ऋ॒तस्य॑ । प॒थिऽभिः॑ । रजि॑ष्ठैः । अ॒र्य॒मा । मि॒त्रः । वरु॑णः । परि॑ऽज्मा । त्वच॑म् । पृ॒ञ्च॒न्ति॒ । उप॑रस्य । योनौ॑ ॥यत् ईम् । ऋतस्य । पयसा । पियानः । नयन् । ऋतस्य । पथिभिः । रजिष्ठैः । अर्यमा । मित्रः । वरुणः । परिज्मा । त्वचम् । पृञ्चन्ति । उपरस्य । योनौ ॥yat īm | ṛtasya | payasā | piyānaḥ | nayan | ṛtasya | pathi-bhiḥ | rajiṣṭhaiḥ | ayarmā | mitraḥ | varuṇaḥ | pari-jmā | tvacam | pṛñcanti | uparasya | yonau