Sukta 1.79
आ ते सुपर्णा अमिनन्तँ एवैः कृष्णो नोनाव वृषभो यदीदम् । शिवाभिर्न स्मयमानाभिरागात्पतन्ति मिहः स्तनयन्त्यभ्रा ॥
आ ते॑ सुप॒र्णा अ॑मिनन्तँ॒ एवै॑: कृ॒ष्णो नो॑नाव वृष॒भो यदी॒दम् । शि॒वाभि॒र्न स्मय॑मानाभि॒रागा॒त्पत॑न्ति॒ मिह॑: स्त॒नय॑न्त्य॒भ्रा ॥
ā́ te supárṇā amínantaṁ évaiḥ | kṛṣṇó nonāva vṛṣabhó yad ī́dam | śivā́bhir ná smáyamānābhir ā́gāt | pátanti míhaḥ stanáyanty abhrā́ ||
To you the strong-winged powers come, unbroken in their impulsions; the dark-bull roars as this is set in motion. With auspicious, smiling energies he has arrived; the mists fly and the clouds thunder—signs of the inner pressure that releases the waters of force.
आ । ते॒ । सु॒ऽप॒र्णाः । अ॒मि॒न॒न्त॒ । एवैः॑ । कृ॒ष्णः । नो॒ना॒व॒ । वृ॒ष॒भः । यदि॑ । इ॒दम् । शि॒वाभिः॑ । न । स्मय॑मानाभिः । आ । अ॒गा॒त् । पत॑न्ति । मिहः॑ । स्त॒नय॑न्ति । अ॒भ्रा ॥आ । ते । सुपर्णाः । अमिनन्त । एवैः । कृष्णः । नोनाव । वृषभः । यदि । इदम् । शिवाभिः । न । स्मयमानाभिः । आ । अगात् । पतन्ति । मिहः । स्तनयन्ति । अभ्रा ॥ā | te | su-parṇāḥ | aminanta | evaiḥ | kṛṣṇaḥ | nonāva | vṛṣabhaḥ | yadi | idam | śivābhiḥ | na | smayamānābhiḥ | ā | agāt | patanti | mihaḥ | stanayanti | abhṛā