Sukta 1.79
हिरण्यकेशो रजसो विसारेऽहिर्धुनिर्वात इव ध्रजीमान् । शुचिभ्राजा उषसो नवेदा यशस्वतीरपस्युवो न सत्याः ॥
हिर॑ण्यकेशो॒ रज॑सो विसा॒रेऽहि॒र्धुनि॒र्वात॑ इव॒ ध्रजी॑मान् । शुचि॑भ्राजा उ॒षसो॒ नवे॑दा॒ यश॑स्वतीरप॒स्युवो॒ न स॒त्याः ॥
híraṇyakeśo rájaso visāré ’hír dhúnir vā́ta iva dhrájīmān | śúci-bhrājā uṣáso návedā yáśasvatīr apasyúvo ná satyā́ḥ ||
Golden-maned, spreading through the mid-world, like a serpent surging, like the wind in swift impetus—pure in shining—he is as dawns ever-new, glorious, true, and eager in the work: the fire of awakening moving through our being.
हिर॑ण्यऽकेशः । रज॑सः । वि॒ऽसा॒रे । अहिः॑ । धुनिः॑ । वातः॑ऽइव । ध्रजी॑मान् । शुचि॑ऽभ्राजाः । उ॒षसः॑ । नवे॑दाः । यश॑स्वतीः । अ॒प॒स्युवः॑ । न । स॒त्याः ॥हिरण्यकेशः । रजसः । विसारे । अहिः । धुनिः । वातःइव । ध्रजीमान् । शुचिभ्राजाः । उषसः । नवेदाः । यशस्वतीः । अपस्युवः । न । सत्याः ॥hiraṇya-keśaḥ | rajasaḥ | vi-sāre | ahiḥ | dhuniḥ | vātaḥ-iva | dhrajīmān | śuci-bhrājāḥ | uṣasaḥ | navedāḥ | yaśasvatīḥ | apasyuvaḥ | na | satyāḥ