Sukta 1.78
तमु त्वा वाजसातममङ्गिरस्वद्धवामहे । द्युम्नैरभि प्र णोनुमः ॥
तमु॑ त्वा वाज॒सात॑ममङ्गिर॒स्वद्ध॑वामहे । द्यु॒म्नैर॒भि प्र णो॑नुमः ॥
tám u tvā vāja-sā́tamam aṅgirasvád dhavāmahe | dyumnáir abhí prá ṇónumaḥ ||
That you we call, most victorious in the winning of vāja—plenitude of force—O Angiras-like flame; with luminous powers we urge you onward in us.
तम् । ऊँ॒ इति॑ । त्वा॒ । वा॒ज॒ऽसात॑मम् । अ॒ङ्गि॒र॒स्वत् । ह॒वा॒म॒हे॒ । द्यु॒म्नैः । अ॒भि । प्र । नो॒नु॒मः॒ ॥तम् । ऊँ इति । त्वा । वाजसातमम् । अङ्गिरस्वत् । हवामहे । द्युम्नैः । अभि । प्र । नोनुमः ॥tam | oṃ iti | tvā | vāja-sātamam | aṅgirasvat | havāmahe | dyumnaiḥ | abhi | pra | nonumaḥ