Sukta 1.78
तमु त्वा गोतमो गिरा रायस्कामो दुवस्यति । द्युम्नैरभि प्र णोनुमः ॥
तमु॑ त्वा॒ गोत॑मो गि॒रा रा॒यस्का॑मो दुवस्यति । द्यु॒म्नैर॒भि प्र णो॑नुमः ॥
tám u tvā́ gotámo girā́ rāyás-kāmo duvasyati | dyumnáir abhí prá ṇónumaḥ ||
That you, O Agni, Gotama serves with the inspired word, desiring the rayi—fullness of being; with luminous powers we urge you to advance within us.
तम् । ऊँ॒ इति॑ । त्वा॒ । गोत॑मः । गि॒रा । रा॒यःऽका॑मः । दु॒व॒स्य॒ति॒ । द्यु॒म्नैः । अ॒भि । प्र । नो॒नु॒मः॒ ॥तम् । ऊँ इति । त्वा । गोतमः । गिरा । रायःकामः । दुवस्यति । द्युम्नैः । अभि । प्र । नोनुमः ॥tam | oṃ iti | tvā | gotamaḥ | girā | rāyaḥ-kāmaḥ | duvasyati | dyumnaiḥ | abhi | pra | nonumaḥ