Sukta 1.78
अभि त्वा गोतमा गिरा जातवेदो विचर्षणे । द्युम्नैरभि प्र णोनुमः ॥
अ॒भि त्वा॒ गोत॑मा गि॒रा जात॑वेदो॒ विच॑र्षणे । द्यु॒म्नैर॒भि प्र णो॑नुमः ॥
abhí tvā́ gotámā girā́ jā́tavedo vícarṣaṇe | dyumnáir abhí prá ṇónumaḥ ||
Toward you, O Jātavedas, wide-seeing Power, the Gotamas press with the word; with luminous strengths we urge you forward within us.
अ॒भि । त्वा॒ । गोत॑माः । गि॒रा । जात॑ऽवेदः । विऽच॑र्षणे । द्यु॒म्नैः । अ॒भि । प्र । नो॒नु॒मः॒ ॥अभि । त्वा । गोतमाः । गिरा । जातवेदः । विचर्षणे । द्युम्नैः । अभि । प्र । नोनुमः ॥abhi | tvā | gotamāḥ | girā | jāta-vedaḥ | vi-carṣaṇe | dyumnaiḥ | abhi | pra | nonumaḥ