Sukta 1.77
स नो नृणां नृतमो रिशादा अग्निर्गिरोऽवसा वेतु धीतिम् । तना च ये मघवानः शविष्ठा वाजप्रसूता इषयन्त मन्म ॥
स नो॑ नृ॒णां नृत॑मो रि॒शादा॑ अ॒ग्निर्गिरोऽव॑सा वेतु धी॒तिम् । तना॑ च॒ ये म॒घवा॑न॒: शवि॑ष्ठा॒ वाज॑प्रसूता इ॒षय॑न्त॒ मन्म॑ ॥
sá no nṛṇā́ṃ nṛtámo riśā́dā agnír gíro ’vá sā vetu dhī́tim | tánā ca yé maghávānaḥ śáviṣṭhā vā́ja prasūtā iṣáyanta mánma ||
May that Agni, the most manly among men, the slayer of the harmful, come to us with his help and bring our inspired word to fulfillment. And may those mighty, most forceful powers, impelled by plenitude of strength, set our thought into a forward drive.
सः । नः॒ । नृ॒णाम् । नृऽत॑मः । रि॒शादाः॑ । अ॒ग्निः । गिरः॑ । अव॑सा । वे॒तु॒ । धी॒तिम् । तना॑ । च॒ । ये । म॒घऽवा॑नः । शवि॑ष्ठाः । वाज॑ऽप्रसूताः । इ॒षय॑न्त । मन्म॑ ॥सः । नः । नृणाम् । नृतमः । रिशादाः । अग्निः । गिरः । अवसा । वेतु । धीतिम् । तना । च । ये । मघवानः । शविष्ठाः । वाजप्रसूताः । इषयन्त । मन्म ॥saḥ | naḥ | nṛṇām | nṛ-tamaḥ | riśādāḥ | agniḥ | giraḥ | avasā | vetu | dhītim | tanā | ca | ye | magha-vānaḥ | śaviṣṭhāḥ | vāja-prasūtāḥ | iṣayanta | manma