Sukta 1.77
स हि क्रतुः स मर्यः स साधुर्मित्रो न भूदद्भुतस्य रथीः । तं मेधेषु प्रथमं देवयन्तीर्विश उप ब्रुवते दस्ममारीः ॥
स हि क्रतु॒: स मर्य॒: स सा॒धुर्मि॒त्रो न भू॒दद्भु॑तस्य र॒थीः । तं मेधे॑षु प्रथ॒मं दे॑व॒यन्ती॒र्विश॒ उप॑ ब्रुवते द॒स्ममारी॑: ॥
sá hí kratúḥ sá már yaḥ sá sādhúr mitró ná bhūd ádbhutasya rathī́ḥ | táṃ médheṣu prathamáṃ devayántīr víśa úpa bruvate dasmám ārī́ḥ ||
He indeed is the will and power of discernment; he is the noble warrior-force; he is the good and straight helper—like a friend; he becomes the charioteer of the wondrous journey. Him first in the acts of consecration the God-seeking peoples call near, speaking to the skillful one from every side.
सः । हि । क्रतुः॑ । सः । मर्यः॑ । सः । सा॒धुः । मि॒त्रः । न । भू॒त् । अद्भु॑तस्य । र॒थीः । तम् । मेधे॑षु । प्र॒थ॒मम् । दे॒व॒ऽयन्तीः । विशः॑ । उप॑ । ब्रु॒व॒ते॒ । द॒स्मम् । आरीः॑ ॥सः । हि । क्रतुः । सः । मर्यः । सः । साधुः । मित्रः । न । भूत् । अद्भुतस्य । रथीः । तम् । मेधेषु । प्रथमम् । देवयन्तीः । विशः । उप । ब्रुवते । दस्मम् । आरीः ॥saḥ | hi | kratuḥ | saḥ | maryaḥ | saḥ | sādhuḥ | mitraḥ | na | bhūt | adbhutasya | rathīḥ | tam | medheṣu | prathamam | deva-yantīḥ | viśaḥ | upa | bruvate | dasmam | ārīḥ