Sukta 1.77
एवाग्निर्गोतमेभिॠतावा विप्रेभिरस्तोष्ट जातवेदाः । स एषु द्युम्नं पीपयत्स वाजं स पुष्टिं याति जोषमा चिकित्वान् ॥
ए॒वाग्निर्गोत॑मेभिॠ॒तावा॒ विप्रे॑भिरस्तोष्ट जा॒तवे॑दाः । स ए॑षु द्यु॒म्नं पी॑पय॒त्स वाजं॒ स पु॒ष्टिं या॑ति॒ जोष॒मा चि॑कि॒त्वान् ॥
evā́gnír gotámebhir ṛtā́vā víprebhir astoṣṭa jātávedāḥ | sá eṣú dyumnáṃ pī́payat sá vā́jaṃ sá púṣṭiṃ yāti jóṣam ā́ cikitvā́n ||
Thus Agni, the knower of births, upheld in ṛta, has been praised by the Gautamas, the inspired seers. In these (works) he increases the luminous glory; he brings the plenitude of force; he comes to growth and nourishment with glad acceptance, being the conscious knower.
ए॒व । अ॒ग्निः । गोत॑मेभिः । ऋ॒तऽवा॑ । विप्रे॑भिः । अ॒स्तो॒ष्ट॒ । जा॒तऽवे॑दाः । सः । ए॒षु॒ । द्यु॒म्नम् । पी॒प॒य॒त् । सः । वाज॑म् । सः । पु॒ष्टिम् । या॒ति॒ । जोष॑म् । आ । चि॒कि॒त्वान् ॥एव । अग्निः । गोतमेभिः । ऋतवा । विप्रेभिः । अस्तोष्ट । जातवेदाः । सः । एषु । द्युम्नम् । पीपयत् । सः । वाजम् । सः । पुष्टिम् । याति । जोषम् । आ । चिकित्वान् ॥eva | agniḥ | gotamebhiḥ | ṛta-vā | viprebhiḥ | astoṣṭa | jāta-vedāḥ | saḥ | eṣu | dyumnam | pīpayat | saḥ | vājam | saḥ | puṣṭim | yāti | joṣam | ā | cikitvān