Sukta 1.77
यो अध्वरेषु शंतम ऋतावा होता तमू नमोभिरा कृणुध्वम् । अग्निर्यद्वेर्मर्ताय देवान्त्स चा बोधाति मनसा यजाति ॥
यो अ॑ध्व॒रेषु॒ शंत॑म ऋ॒तावा॒ होता॒ तमू॒ नमो॑भि॒रा कृ॑णुध्वम् । अ॒ग्निर्यद्वेर्मर्ता॑य दे॒वान्त्स चा॒ बोधा॑ति॒ मन॑सा यजाति ॥
yo adhvaréṣu śáṃtama ṛtā́vā hótā tám ū́ námo bhir ā́ kṛṇudhvam | agnír yád vér mártāya devā́ntsá cā bódhāti mánasā yajāti ||
He who in the journeys of sacrifice is the most peace-giving, the Hotṛ who holds ṛta—make him yours with acts of homage. For when Agni truly chooses (and wins) the Gods for the mortal, he also awakens in consciousness and sacrifices with the mind.
यः । अ॒ध्व॒रेषु॑ । शम्ऽत॑मः । ऋ॒तऽवा॑ । होता॑ । तम् । ऊँ॒ इति॑ । नमः॑ऽभिः । आ । कृ॒णु॒ध्व॒म् । अ॒ग्निः । यत् । वेः । मर्ता॑य । दे॒वान् । सः । च॒ । बोधा॑ति । मन॑सा । य॒जा॒ति॒ ॥यः । अध्वरेषु । शम्तमः । ऋतवा । होता । तम् । ऊँ इति । नमःभिः । आ । कृणुध्वम् । अग्निः । यत् । वेः । मर्ताय । देवान् । सः । च । बोधाति । मनसा । यजाति ॥yaḥ | adhvareṣu | śam-tamaḥ | ṛta-vā | hotā | tam | oṃ iti | namaḥ-bhiḥ | ā | kṛṇudhvam | agniḥ | yat | veḥ | martāya | devān | saḥ | ca | bodhāti | manasā | yajāti