Sukta 1.77
कथा दाशेमाग्नये कास्मै देवजुष्टोच्यते भामिने गीः । यो मर्त्येष्वमृत ऋतावा होता यजिष्ठ इत्कृणोति देवान् ॥
क॒था दा॑शेमा॒ग्नये॒ कास्मै॑ दे॒वजु॑ष्टोच्यते भा॒मिने॒ गीः । यो मर्त्ये॑ष्व॒मृत॑ ऋ॒तावा॒ होता॒ यजि॑ष्ठ॒ इत्कृ॒णोति॑ दे॒वान् ॥
kathā dāśemā́gnaye kā́ asmai devájuṣṭocyate bhā́mine gī́ḥ | yo mártyeṣv amṛ́ta ṛtā́vā hótā yájiṣṭha ít kṛṇóti devā́n ||
How shall we give ourselves to Agni, and what word, accepted by the Gods, is to be spoken to the radiant one? He who among mortals is immortal, the keeper of ṛta, the Hotṛ most skilled in sacrifice—he it is who fashions the Gods for us (makes them present and effective).
क॒था । दा॒शे॒म॒ । अ॒ग्नये॑ । का । अ॒स्मै॒ । दे॒वऽजु॑ष्टा । उ॒च्य॒ते॒ । भा॒मिने॑ । गीः । यः । मर्त्ये॑षु । अ॒मृतः॑ । ऋ॒तऽवा॑ । होता॑ । यजि॑ष्ठः । इत् । कृ॒णोति॑ । दे॒वान् ॥कथा । दाशेम । अग्नये । का । अस्मै । देवजुष्टा । उच्यते । भामिने । गीः । यः । मर्त्येषु । अमृतः । ऋतवा । होता । यजिष्ठः । इत् । कृणोति । देवान् ॥kathā | dāśema | agnaye | kā | asmai | deva-juṣṭā | ucyate | bhāmine | gīḥ | yaḥ | martyeṣu | amṛtaḥ | ṛta-vā | hotā | yajiṣṭhaḥ | it | kṛṇoti | devān