Sukta 1.73
अर्वद्भिरग्ने अर्वतो नृभिर्नॄन्वीरैर्वीरान्वनुयामा त्वोताः । ईशानासः पितृवित्तस्य रायो वि सूरयः शतहिमा नो अश्युः ॥
अर्व॑द्भिरग्ने॒ अर्व॑तो॒ नृभि॒र्नॄन्वी॒रैर्वी॒रान्व॑नुयामा॒ त्वोता॑: । ई॒शा॒नास॑: पितृवि॒त्तस्य॑ रा॒यो वि सू॒रय॑: श॒तहि॑मा नो अश्युः ॥
árvadbhir agne árvato nṛ́bhir nṝ́n vī́rair vīrā́n vanuyāma tvó-tāḥ | īśānā́saḥ pitṛ-vittásya rāyó ví sūrayaḥ śatá-himā no aśyuḥ ||
With our coursers, O Agni, with coursing energies; with men, with heroic powers—may we, protected by you, win heroes by heroes. Becoming masters of the wealth won by the fathers, may the luminous seers strive for us in hundredfold measures.
अर्व॑त्ऽभिः । अ॒ग्ने॒ । अर्व॑तः । नृभिः॑ । नॄन् । वी॒रैः । वी॒रान् । व॒नु॒या॒म॒ । त्वाऽऊ॑ताः । ई॒शा॒नासः॑ । पि॒तृ॒ऽवि॒त्तस्य॑ । रा॒यः । वि । सू॒रयः॑ । श॒तऽहि॑माः । नः॒ । अ॒श्युः॒ ॥अर्वत्भिः । अग्ने । अर्वतः । नृभिः । नॄन् । वीरैः । वीरान् । वनुयाम । त्वाऊताः । ईशानासः । पितृवित्तस्य । रायः । वि । सूरयः । शतहिमाः । नः । अश्युः ॥arvat-bhiḥ | agne | arvataḥ | nṛbhiḥ | nṝn vīrair vīrān vanuyāmā tvotāḥ | īśānāsaḥ | pitṛ-vittasyar | yaḥ | vi | sūrayaḥ | śata-himāḥ | naḥ | aśyuḥ