Sukta 1.73
यान्राये मर्तान्त्सुषूदो अग्ने ते स्याम मघवानो वयं च । छायेव विश्वं भुवनं सिसक्ष्यापप्रिवान्रोदसी अन्तरिक्षम् ॥
यान्रा॒ये मर्ता॒न्त्सुषू॑दो अग्ने॒ ते स्या॑म म॒घवा॑नो व॒यं च॑ । छा॒येव॒ विश्वं॒ भुव॑नं सिसक्ष्यापप्रि॒वान्रोद॑सी अ॒न्तरि॑क्षम् ॥
yā́n rāyé martā́nt suṣū́do agne té syāma maghávāno vayáṃ ca | chāyéva víśvaṃ bhúvanaṃ sisakṣy āpaprí-vān ródasī antárikṣam ||
Those mortals whom you impel toward the fullness (rāyī), O Agni the good-instigator—may we too be among those generous ones. Like a sheltering shade may you embrace the whole world of becoming, filling the two worlds and the midspace within us.
यान् । रा॒ये । म॒र्ता॑न् । सुसू॑दः । अ॒ग्ने॒ । ते । स्या॒म॒ । म॒घऽवा॑नः । व॒यम् । च॒ । छा॒याऽइ॑व । विश्व॑म् । भुव॑नम् । सि॒स॒क्षि॒ । आ॒प॒प्रि॒ऽवान् । रोद॑सी॒ इति॑ । अ॒न्तरि॑क्षम् ॥यान् । राये । मर्तान् । सुसूदः । अग्ने । ते । स्याम । मघवानः । वयम् । च । छायाइव । विश्वम् । भुवनम् । सिसक्षि । आपप्रिवान् । रोदसी इति । अन्तरिक्षम् ॥yān | rāye | martān | susūdaḥ | agne | te | syāma | magha-vānaḥ | vayam | ca | chāyāiva | viśvam | bhuvanam | sisakṣi | āpapri-vān | rodasī iti | antarikṣam