Sukta 1.73
एता ते अग्न उचथानि वेधो जुष्टानि सन्तु मनसे हृदे च । शकेम रायः सुधुरो यमं तेऽधि श्रवो देवभक्तं दधानाः ॥
ए॒ता ते॑ अग्न उ॒चथा॑नि वेधो॒ जुष्टा॑नि सन्तु॒ मन॑से हृ॒दे च॑ । श॒केम॑ रा॒यः सु॒धुरो॒ यमं॒ तेऽधि॒ श्रवो॑ दे॒वभ॑क्तं॒ दधा॑नाः ॥
etā́ te agna ucáthāni vedho júṣṭāni santu mánase hṛdé ca | śakéma rāyáḥ su-dhúro yámam té'dhí śrávo deva-bhaktáṃ dádhānāḥ ||
These utterances to you, O Agni the knower, may they be welcome to the mind and the heart. May we be able to bear and drive your well-yoked governance of fullness; and may we establish above us the god-given glory, founded in the divine portion.
ए॒ता । ते॒ । अ॒ग्ने॒ । उ॒चथा॑नि । वे॒धः॒ । जुष्टा॑नि । स॒न्तु॒ । मन॑से । हृ॒दे । च॒ । श॒केम॑ । रा॒यः । सु॒ऽधुरः॑ । यम॑म् । ते॒ । अधि॑ । श्रवः॑ । दे॒वऽभ॑क्तम् । दधा॑नाः ॥एता । ते । अग्ने । उचथानि । वेधः । जुष्टानि । सन्तु । मनसे । हृदे । च । शकेम । रायः । सुधुरः । यमम् । ते । अधि । श्रवः । देवभक्तम् । दधानाः ॥etā | te | agne | ucathāni | vedhaḥ | juṣṭāni | santu | manase | hṛde | ca | śakema | rāyaḥ | su-dhuraḥ | yamam | te | adhi | śravaḥ | deva-bhaktam | dadhānāḥ