Sukta 1.73
त्वे अग्ने सुमतिं भिक्षमाणा दिवि श्रवो दधिरे यज्ञियासः । नक्ता च चक्रुरुषसा विरूपे कृष्णं च वर्णमरुणं च सं धुः ॥
त्वे अ॑ग्ने सुम॒तिं भिक्ष॑माणा दि॒वि श्रवो॑ दधिरे य॒ज्ञिया॑सः । नक्ता॑ च च॒क्रुरु॒षसा॒ विरू॑पे कृ॒ष्णं च॒ वर्ण॑मरु॒णं च॒ सं धु॑: ॥
tvé agne su-matíṃ bhíkṣamāṇā diví śrávo dadhire yajñíyāsaḥ | náktā ca cakrur uṣásā vírūpe kṛ́ṣṇaṃ ca várṇam aruṇáṃ ca sáṃ dhuḥ ||
In you, O Agni, seeking the right mind, the sacrificers establish in the heaven their true glory. Night and Dawn, the two of differing forms, have jointly set in place the black hue and the ruddy hue—darkness and illumination ordered in their turn.
त्वे । अ॒ग्ने॒ । सु॒ऽम॒तिम् । भिक्ष॑माणाः । दि॒वि । श्रवः॑ । द॒धि॒रे॒ । य॒ज्ञियाः॑ । नक्ता॑ । च॒ । च॒क्रुः । उ॒षसा । विरू॑पे॒ इति॒ विऽरू॑पे । कृ॒ष्णम् । च॒ । वर्ण॑म् । अ॒रु॒णम् । च॒ । सम् । धु॒रिति॑ धुः ॥त्वे । अग्ने । सुमतिम् । भिक्षमाणाः । दिवि । श्रवः । दधिरे । यज्ञियाः । नक्ता । च । चक्रुः । उषसा । विरूपे इति विरूपे । कृष्णम् । च । वर्णम् । अरुणम् । च । सम् । धुरिति धुः ॥tve | agne | su-matim | bhikṣamāṇāḥ | divi | śravaḥ | dadhire | yajñiyāḥ | naktā | ca | cakruḥ | uṣasā | virūpeitivi-rūpe | kṛṣṇam | ca | varṇam | aruṇam | ca | sam | dhurit idhuḥ