Sukta 1.73
ऋतस्य हि धेनवो वावशानाः स्मदूध्नीः पीपयन्त द्युभक्ताः । परावतः सुमतिं भिक्षमाणा वि सिन्धवः समया सस्रुरद्रिम् ॥
ऋ॒तस्य॒ हि धे॒नवो॑ वावशा॒नाः स्मदू॑ध्नीः पी॒पय॑न्त॒ द्युभ॑क्ताः । प॒रा॒वत॑: सुम॒तिं भिक्ष॑माणा॒ वि सिन्ध॑वः स॒मया॑ सस्रु॒रद्रि॑म् ॥
ṛtásya hí dhenávo vāvaśānā́ḥ smád-ū́dhnīḥ pī́payanta dyú-bhaktāḥ | parāvátaḥ su-matíṃ bhíkṣamāṇā ví síndhavaḥ samáyā sasrúr ádrim ||
For the cows of Ṛta, lowing with delight, swell their udders for us—dispensing the luminous portions. From the far beyond, asking for the right-mindedness, the rivers flow apart and together, pressing through the rock of obstruction.
ऋ॒तस्य॑ । हि । धे॒नवः॑ । वा॒व॒शा॒नाः । स्मत्ऽऊ॑ध्नीः । पी॒पय॑न्त । द्युऽभ॑क्ताः । प॒रा॒ऽवतः॑ । सु॒ऽम॒तिम् । भिक्ष॑माणाः । वि । सिन्ध॑वः । स॒मया॑ । स॒स्रुः॒ । अद्रि॑म् ॥ऋतस्य । हि । धेनवः । वावशानाः । स्मत्ऊध्नीः । पीपयन्त । द्युभक्ताः । परावतः । सुमतिम् । भिक्षमाणाः । वि । सिन्धवः । समया । सस्रुः । अद्रिम् ॥ṛtasya | hi | dhenavaḥ | vāvaśānāḥ | smat-ūdhnīḥ | pīpayanta | dyu-bhaktāḥ | parāvataḥ | su-matim | bhikṣamāṇāḥ | vi | sindhavaḥ | samayā | sasruḥ | adrim