Sukta 1.73
वि पृक्षो अग्ने मघवानो अश्युर्वि सूरयो ददतो विश्वमायुः । सनेम वाजं समिथेष्वर्यो भागं देवेषु श्रवसे दधानाः ॥
वि पृक्षो॑ अग्ने म॒घवा॑नो अश्यु॒र्वि सू॒रयो॒ दद॑तो॒ विश्व॒मायु॑: । स॒नेम॒ वाजं॑ समि॒थेष्व॒र्यो भा॒गं दे॒वेषु॒ श्रव॑से॒ दधा॑नाः ॥
ví pṛ́kṣo agne maghávāno aśyur ví sūrayo dádataḥ víśvam ā́yuḥ | sanéma vā́jaṃ samithéṣv aryó bhā́gaṃ devéṣu śrávase dádhānāḥ ||
O Agni, may the generous ones and the seekers press forward—may the luminous seers widen (their giving) through the whole span of life. May we win the plenitude of force in the battles; may the noble aspiration hold its rightful share among the gods, establishing fame (as the soul’s hearing of Truth).
वि । पृक्षः॑ । अ॒ग्ने॒ । म॒घऽवा॑नः । अश्युः॑ । वि । सू॒रयः॑ । दद॑तः । विश्व॑म् । आयुः॑ । स॒नेम॑ । वाज॑म् । स॒म्ऽइ॒थेषु॑ । अ॒र्यः । भा॒गम् । दे॒वेषु॑ । श्रव॑से । दधा॑नाः ॥वि । पृक्षः । अग्ने । मघवानः । अश्युः । वि । सूरयः । ददतः । विश्वम् । आयुः । सनेम । वाजम् । सम्इथेषु । अर्यः । भागम् । देवेषु । श्रवसे । दधानाः ॥vi | pṛkṣaḥ | agne | magha-vānaḥ | aśyuḥ | vi | sūrayaḥ | dadataḥ | viśvam | āyuḥ | sanema | vājam | sam-itheṣu | aryaḥ | bhāgam | deveṣu | śravase | dadhānāḥ