Sukta 1.73
तं त्वा नरो दम आ नित्यमिद्धमग्ने सचन्त क्षितिषु ध्रुवासु । अधि द्युम्नं नि दधुर्भूर्यस्मिन्भवा विश्वायुर्धरुणो रयीणाम् ॥
तं त्वा॒ नरो॒ दम॒ आ नित्य॑मि॒द्धमग्ने॒ सच॑न्त क्षि॒तिषु॑ ध्रु॒वासु॑ । अधि॑ द्यु॒म्नं नि द॑धु॒र्भूर्य॑स्मि॒न्भवा॑ वि॒श्वायु॑र्ध॒रुणो॑ रयी॒णाम् ॥
táṃ tvā nárō dáma ā́ nítyam iddhám agne sácanta kṣitíṣu dhruvā́su | ádhi dyumnáṃ ní dadhur bhū́ry asmín bhávā viśvā́yur dharuṇó rayīṇā́m ||
You—whom men in the home approach always kindled, O Agni, in the firm habitations—on you they set abundant luminous power. Become for us the holder of all-life, the firm support of plenitudes.
तम् । त्वा॒ । नरः॑ । दमे॑ । आ । नित्य॑म् । इ॒द्धम् । अ॒ग्ने॒ । सच॑न्त । क्षि॒तिषु॑ । ध्रु॒वासु॑ । अधि॑ । द्यु॒म्नम् । नि । द॒धुः॒ । भूरि॑ । अ॒स्मि॒न् । भव॑ । वि॒श्वऽआ॑युः । ध॒रुणः॑ । र॒यी॒णाम् ॥तम् । त्वा । नरः । दमे । आ । नित्यम् । इद्धम् । अग्ने । सचन्त । क्षितिषु । ध्रुवासु । अधि । द्युम्नम् । नि । दधुः । भूरि । अस्मिन् । भव । विश्वआयुः । धरुणः । रयीणाम् ॥tam | tvā | naraḥ | dame | ā | nityam | iddham | agne | sacanta | kṣitiṣu | dhruvāsu | adhi | dyumnam | ni | dadhuḥ | bhūri | asmin | bhava | viśva-āyuḥ | dharuṇaḥ | rayīṇām