Sukta 1.73
देवो न यः पृथिवीं विश्वधाया उपक्षेति हितमित्रो न राजा । पुरःसदः शर्मसदो न वीरा अनवद्या पतिजुष्टेव नारी ॥
दे॒वो न यः पृ॑थि॒वीं वि॒श्वधा॑या उप॒क्षेति॑ हि॒तमि॑त्रो॒ न राजा॑ । पु॒र॒:सद॑: शर्म॒सदो॒ न वी॒रा अ॑नव॒द्या पति॑जुष्टेव॒ नारी॑ ॥
devó ná yaḥ pṛthivī́ṃ viśvá-dhāyā upa-kṣéti hitá-mitro ná rājā́ | puráḥ-sadaḥ śárma-sado ná vīrā́ anavadyā́ patí-juṣṭeva nā́rī ||
Like a god, he dwells upon the all-supporting Earth, a king with friendly alliances set in harmony. He is one who sits in the front, who sits in peace, like heroes; blameless, like a wife cherished by her lord.
दे॒वः । न । यः । पृ॒थि॒वीम् । वि॒श्वऽधा॑याः । उ॒प॒ऽक्षेति॑ । हि॒तऽमि॑त्रः॑ । न । राजा॑ । पु॒रः॒ऽसदः॑ । श॒र्म॒ऽसदः॑ । न । वी॒राः । अ॒न॒व॒द्या । पति॑जुष्टाऽइव । नारी॑ ॥देवः । न । यः । पृथिवीम् । विश्वधायाः । उपक्षेति । हितमित्रः । न । राजा । पुरःसदः । शर्मसदः । न । वीराः । अनवद्या । पतिजुष्टाइव । नारी ॥devaḥ | na | yaḥ | pṛthivīm | viśva-dhāyāḥ | upa-kṣeti | hita-mitraḥ | na | rājā | puraḥ-sadaḥ | śarma-sadaḥ | na | vīrāḥ | anavadyā | patijuṣṭāiva | nārī