Sukta 1.73
देवो न यः सविता सत्यमन्मा क्रत्वा निपाति वृजनानि विश्वा । पुरुप्रशस्तो अमतिर्न सत्य आत्मेव शेवो दिधिषाय्यो भूत् ॥
दे॒वो न यः स॑वि॒ता स॒त्यम॑न्मा॒ क्रत्वा॑ नि॒पाति॑ वृ॒जना॑नि॒ विश्वा॑ । पु॒रु॒प्र॒श॒स्तो अ॒मति॒र्न स॒त्य आ॒त्मेव॒ शेवो॑ दिधि॒षाय्यो॑ भूत् ॥
devó ná yaḥ savitā́ satyá-manmā kratvā́ ni-pā́ti vṛjánāni víśvā | puru-praśastó amátir ná satyá ātméva śévō didhiṣā́yyo bhūt ||
Like Savitṛ the god, whose thought is truth, by will he guards and sets right all the crookedness. Much-praised, he is not a false-mindedness but the true; like the inmost self he becomes the benignant one to be firmly held.
दे॒वः । न । यः । स॒वि॒ता । स॒त्यऽम॑न्मा । क्रत्वा॑ । नि॒ऽपाति॑ । वृ॒जना॑नि । विश्वा॑ । पु॒रु॒ऽप्र॒श॒स्तः । अ॒मतिः॑ । न । स॒त्यः । आ॒त्माऽइ॑व । शेवः॑ । दि॒धि॒षाय्यः॑ । भू॒त् ॥देवः । न । यः । सविता । सत्यमन्मा । क्रत्वा । निपाति । वृजनानि । विश्वा । पुरुप्रशस्तः । अमतिः । न । सत्यः । आत्माइव । शेवः । दिधिषाय्यः । भूत् ॥devaḥ | na | yaḥ | savitā | satya-manmā | kratvā | ni-pāti | vṛjanāni | viśvā | puru-praśastaḥ | amatiḥ | na | satyaḥ | ātmāiva | śevaḥ | didhiṣāyyaḥ | bhūt