Sukta 1.73
रयिर्न यः पितृवित्तो वयोधाः सुप्रणीतिश्चिकितुषो न शासुः । स्योनशीरतिथिर्न प्रीणानो होतेव सद्म विधतो वि तारीत् ॥
र॒यिर्न यः पि॑तृवि॒त्तो व॑यो॒धाः सु॒प्रणी॑तिश्चिकि॒तुषो॒ न शासु॑: । स्यो॒न॒शीरति॑थि॒र्न प्री॑णा॒नो होते॑व॒ सद्म॑ विध॒तो वि ता॑रीत् ॥
rayír ná yaḥ pitṛ-vittó vayó-dhāḥ su-práṇītiś cikituṣó ná śā́suḥ | syoná-śīr átithir ná prīṇānó hotéva sádma vidható ví tārīt ||
Like a plenitude that is ancestral and well-won, he upholds our growth; with a perfect leading he instructs the discerning. Like a welcome guest bringing ease, he satisfies; like a priest, he opens out the home of the one who offers.
र॒यिः । न । यः । पि॒तृ॒ऽवि॒त्तः । व॒यः॒ऽधाः । सु॒ऽप्रनी॑तिः । चि॒कि॒तुषः॑ । न । शासुः॑ । स्यो॒न॒ऽशीः । अति॑थिः । न । प्री॒णा॒नः । होता॑ऽइव । सद्म॑ । वि॒ध॒तः । वि । ता॒री॒त् ॥रयिः । न । यः । पितृवित्तः । वयःधाः । सुप्रनीतिः । चिकितुषः । न । शासुः । स्योनशीः । अतिथिः । न । प्रीणानः । होताइव । सद्म । विधतः । वि । तारीत् ॥rayiḥ | na | yaḥ | pitṛ-vittaḥ | vayaḥ-dhāḥ | su-pranītiḥ | cikituṣaḥ | na | śāsuḥ | syona-śīḥ | atithiḥ | na | prīṇānaḥ | hotāiva | sadma | vidhataḥ | vi | tārīt