Sukta 1.72
आ ये विश्वा स्वपत्यानि तस्थुः कृण्वानासो अमृतत्वाय गातुम् । मह्ना महद्भिः पृथिवी वि तस्थे माता पुत्रैरदितिर्धायसे वेः ॥
आ ये विश्वा॑ स्वप॒त्यानि॑ त॒स्थुः कृ॑ण्वा॒नासो॑ अमृत॒त्वाय॑ गा॒तुम् । म॒ह्ना म॒हद्भि॑: पृथि॒वी वि त॑स्थे मा॒ता पु॒त्रैरदि॑ति॒र्धाय॑से॒ वेः ॥
ā́ yé víśvā sv-apatyā́ni tasthúḥ kṛṇvānā́so amṛta-tvā́ya gātúm | mahnā́ mahád-bhiḥ pṛthivī́ ví tasthé mātā́ putráir áditir dhā́yase véḥ ||
Those who established all the noble becomings, shaping a path for immortality—by their vastness the Earth stood wide. The Mother Aditi, with her sons, came to the act of sustaining and nourishing the worlds within us.
आ । ये । विश्वा॑ । सु॒ऽअ॒प॒त्यानि॑ । त॒स्थुः । कृ॒ण्वा॒नासः॑ । अ॒मृ॒त॒ऽत्वाय॑ । गा॒तुम् । म॒ह्ना । म॒हत्ऽभिः॑ । पृ॒थि॒वी । वि । त॒स्थे॒ । मा॒ता । पु॒त्रैः । अदि॑तिः । धाय॑से । वेः ॥आ । ये । विश्वा । सुअपत्यानि । तस्थुः । कृण्वानासः । अमृतत्वाय । गातुम् । मह्ना । महत्भिः । पृथिवी । वि । तस्थे । माता । पुत्रैः । अदितिः । धायसे । वेः ॥ā | ye | viśvā | su-apatyāni | tasthuḥ | kṛṇvānāsaḥ | amṛta-tvāya | gātum | mahnā | mahat-bhiḥ | pṛthivī | vi | tasthe | mātā | putraiḥ | aditiḥ | dhāyase | veḥ