Sukta 1.72
अधि श्रियं नि दधुश्चारुमस्मिन्दिवो यदक्षी अमृता अकृण्वन् । अध क्षरन्ति सिन्धवो न सृष्टाः प्र नीचीरग्ने अरुषीरजानन् ॥
अधि॒ श्रियं॒ नि द॑धु॒श्चारु॑मस्मिन्दि॒वो यद॒क्षी अ॒मृता॒ अकृ॑ण्वन् । अध॑ क्षरन्ति॒ सिन्ध॑वो॒ न सृ॒ष्टाः प्र नीची॑रग्ने॒ अरु॑षीरजानन् ॥
ádhi śríyaṃ ní dadhúś cā́rum asmín divó yád akṣī́ amṛ́tā akṛṇvan | ádha kṣáranti síndhavo ná sṛṣṭā́ḥ prá nī́cīr agne áruṣīr ajānan ||
They set the lovely splendour firmly in this being when the immortals made the two eyes of Heaven. Then the rivers flow as if released—O Agni—downward the ruddy currents came into knowledge.
अधि॑ । श्रिय॑म् । नि । द॒धुः॒ । चारु॑म् । अ॒स्मि॒न् । दि॒वः । यत् । अ॒क्षी इति॑ । अ॒मृताः॑ । अकृ॑ण्वन् । अध॑ । क्ष॒र॒न्ति॒ । सिन्ध॑वः । न । सृ॒ष्टाः । प्र । नीचीः॑ । अ॒ग्ने॒ । अरु॑षीः । अ॒जा॒न॒न् ॥अधि । श्रियम् । नि । दधुः । चारुम् । अस्मिन् । दिवः । यत् । अक्षी इति । अमृताः । अकृण्वन् । अध । क्षरन्ति । सिन्धवः । न । सृष्टाः । प्र । नीचीः । अग्ने । अरुषीः । अजानन् ॥adhi | śriyam | ni | dadhuḥ | cārum | asmin | divaḥ | yat | akṣī iti | amṛtāḥ | akṛṇvan | adha | kṣaranti | sindhavaḥ | na | sṛṣṭāḥ | pra | nīcīḥ | agne | aruṣīḥ | ajānan