Sukta 1.72
स्वाध्यो दिव आ सप्त यह्वी रायो दुरो व्यृतज्ञा अजानन् । विदद्गव्यं सरमा दृळ्हमूर्वं येना नु कं मानुषी भोजते विट् ॥
स्वा॒ध्यो॑ दि॒व आ स॒प्त य॒ह्वी रा॒यो दुरो॒ व्यृ॑त॒ज्ञा अ॑जानन् । वि॒दद्गव्यं॑ स॒रमा॑ दृ॒ळ्हमू॒र्वं येना॒ नु कं॒ मानु॑षी॒ भोज॑ते॒ विट् ॥
svā́dhyo divá ā́ saptá yahvī́ rāyó dúro vy ṛtá-jñā ajānan | vídad gavyáṃ sarámā dṛḷhám ū́rvaṃ yéna nú kaṃ mā́nuṣī bhójate víṭ ||
Self-mastered, the seven mighty ones from Heaven knew and opened wide the doors of plenitude by the truth they carried. Saramā found the strong enclosure of the Light—by which now the human community comes to its share of delight and substance.
स्वु॒ऽआध्यः॑ । दि॒वः । आ । स॒प्त । य॒ह्वीः । रा॒यः । दुरः॑ । वि । ऋ॒त॒ऽज्ञाः । अ॒जा॒न॒न् । वि॒दत् । गव्य॑म् । स॒रमा॑ । दृ॒ळ्हम् । ऊ॒र्वम् । येन॑ । नु । क॒म् । मानु॑षी । भोज॑ते । विट् ॥स्वुआध्यः । दिवः । आ । सप्त । यह्वीः । रायः । दुरः । वि । ऋतज्ञाः । अजानन् । विदत् । गव्यम् । सरमा । दृळ्हम् । ऊर्वम् । येन । नु । कम् । मानुषी । भोजते । विट् ॥svu-ādhyaḥ | divaḥ | ā | sapta | yahvīḥ | rāyaḥ | duraḥ | vi | ṛta-jñāḥ | ajānan | vidat | gavyam | saramā | dṛḷham | ūrvam | yena | nu | kam | mānuṣī | bhojate | viṭ