Sukta 1.72
विद्वाँ अग्ने वयुनानि क्षितीनां व्यानुषक्छुरुधो जीवसे धाः । अन्तर्विद्वाँ अध्वनो देवयानानतन्द्रो दूतो अभवो हविर्वाट् ॥
वि॒द्वाँ अ॑ग्ने व॒युना॑नि क्षिती॒नां व्या॑नु॒षक्छु॒रुधो॑ जी॒वसे॑ धाः । अ॒न्त॒र्वि॒द्वाँ अध्व॑नो देव॒याना॒नत॑न्द्रो दू॒तो अ॑भवो हवि॒र्वाट् ॥
vidvā́ṃ agne vayúnāni kṣitīnā́ṃ vy ā́nuṣak churúdho jīváse dhāḥ | antár-vidvā́ṃ ádhvano deva-yā́nān átandro dūtó abhavo havir-vā́ṭ ||
Knowing, O Agni, the workings of the human habitations, you set in order—thread by thread—the wide gates for our living. Knowing inwardly the paths that lead to the Gods, untiring you became the messenger, the bearer of the offering-impulse.
वि॒द्वान् । अ॒ग्ने॒ । व॒युना॑नि । क्षि॒ती॒नाम् । वि । आ॒नु॒षक् । शु॒रुधः॑ । जी॒वसे॑ । धाः॒ । अ॒न्तः॒ऽवि॒द्वान् । अध्व॑नः । दे॒व॒ऽयाना॑न् । अत॑न्द्रः । दू॒तः । अ॒भ॒वः॒ । ह॒विः॒ऽवाट् ॥विद्वान् । अग्ने । वयुनानि । क्षितीनाम् । वि । आनुषक् । शुरुधः । जीवसे । धाः । अन्तःविद्वान् । अध्वनः । देवयानान् । अतन्द्रः । दूतः । अभवः । हविःवाट् ॥vidvān | agne | vayunāni | kṣitīnām | vi | ānuṣak | śurudhaḥ | jīvase | dhāḥ | antaḥ-vidvān | adhvanaḥ | deva-yānān | atandraḥ | dūtaḥ | abhavaḥ | haviḥ-vāṭ