Sukta 1.72
त्रिः सप्त यद्गुह्यानि त्वे इत्पदाविदन्निहिता यज्ञियासः । तेभी रक्षन्ते अमृतं सजोषाः पशूञ्च स्थातॄञ्चरथं च पाहि ॥
त्रिः स॒प्त यद्गुह्या॑नि॒ त्वे इत्प॒दावि॑द॒न्निहि॑ता य॒ज्ञिया॑सः । तेभी॑ रक्षन्ते अ॒मृतं॑ स॒जोषा॑: प॒शूञ्च॑ स्था॒तॄञ्च॒रथं॑ च पाहि ॥
tríḥ saptá yad guhyā́ni tvé ít padā́ ávidan ní-hitā yajñíyāsaḥ | tébhī rakṣante amṛ́taṃ sa-jóṣāḥ paśū́ṃś ca sthātṝ́ṃś carátham ca pāhi ||
When the thrice-seven secret things were set within you, the men of the sacrifice discovered them by the steps. By those, in one accord, they guard the immortal; do you also protect our powers of increase, our stable foundations, and our movement on the journey.
त्रिः । स॒प्त । यत् । गुह्या॑नि । त्वे॒ इति॑ । इत् । प॒दा । अ॒वि॒द॒न् । निऽहि॑ताः । य॒ज्ञिया॑सः । तेभिः॑ । र॒क्ष॒न्ते॒ । अ॒मृत॑म् । स॒ऽजोषाः॑ । प॒शून् । च॒ । स्था॒तॄन् । च॒रथ॑म् । च॒ । पा॒हि॒ ॥त्रिः । सप्त । यत् । गुह्यानि । त्वे इति । इत् । पदा । अविदन् । निहिताः । यज्ञियासः । तेभिः । रक्षन्ते । अमृतम् । सजोषाः । पशून् । च । स्थातॄन् । चरथम् । च । पाहि ॥triḥ | sapta | yat | guhyāni | tveiti | it | padā | avidan | ni-hitāḥ | yajñiyāsaḥ | tebhiḥ | rakṣante | amṛtam | sa-joṣāḥ | paśūn | ca | sthātṝn | caratham | ca | pāhi