Sukta 1.72
संजानाना उप सीदन्नभिज्ञु पत्नीवन्तो नमस्यं नमस्यन् । रिरिक्वांसस्तन्वः कृण्वत स्वाः सखा सख्युर्निमिषि रक्षमाणाः ॥
सं॒जा॒ना॒ना उप॑ सीदन्नभि॒ज्ञु पत्नी॑वन्तो नम॒स्यं॑ नमस्यन् । रि॒रि॒क्वांस॑स्त॒न्व॑: कृण्वत॒ स्वाः सखा॒ सख्यु॑र्नि॒मिषि॒ रक्ष॑माणाः ॥
saṃ-jānānā́ upa sīdan abhí-jñu patnī́-vanto namasyáṃ namasyan | ririkvā́ṃsas tanváḥ kṛṇvata svā́ḥ sakhā́ sakhyúr nimiṣí rakṣámāṇāḥ ||
United in one understanding, they sat near the intimate Knower; endowed with the powers that are their consorts, they bowed to what is worthy of adoration. Becoming purified and faultless, they shaped their own bodies into their true form—friend guarding friend in the moment of inner vigilance.
स॒म्ऽजा॒ना॒नाः । उप॑ । सी॒द॒न् । अ॒भि॒ऽज्ञु । पत्नी॑ऽवन्तः । न॒म॒स्य॑म् । न॒म॒स्य॒न्निति॑ नमस्यन् । रि॒रि॒क्वांसः॑ । त॒न्वः॑ । कृ॒ण्व॒त॒ । स्वाः । सखा॑ । सख्युः॑ । नि॒ऽमिषि॑ । रक्ष॑माणाः ॥सम्जानानाः । उप । सीदन् । अभिज्ञु । पत्नीवन्तः । नमस्यम् । नमस्यन्निति नमस्यन् । रिरिक्वांसः । तन्वः । कृण्वत । स्वाः । सखा । सख्युः । निमिषि । रक्षमाणाः ॥sam-jānānāḥ | upa | sīdan | abhi-jñu | patnī-vantaḥ | namasyam | namasyannitinamasyan | ririkvāṃsaḥ | tanvaḥ | kṛṇvata | svāḥ | sakhā | sakhyuḥ | n i-miṣi | rakṣamāṇāḥ