Sukta 1.72
आ रोदसी बृहती वेविदानाः प्र रुद्रिया जभ्रिरे यज्ञियासः । विदन्मर्तो नेमधिता चिकित्वानग्निं पदे परमे तस्थिवांसम् ॥
आ रोद॑सी बृह॒ती वेवि॑दाना॒: प्र रु॒द्रिया॑ जभ्रिरे य॒ज्ञिया॑सः । वि॒दन्मर्तो॑ ने॒मधि॑ता चिकि॒त्वान॒ग्निं प॒दे प॑र॒मे त॑स्थि॒वांस॑म् ॥
ā ródasī bṛhatī́ vevidānā́ḥ prá rudriyā́ jabhrire yajñiyā́saḥ | vidán márto nemadhitā́ cikitvān agníṃ padé paramé tasthivā́ṃsam ||
To the two vast worlds, awakened into knowledge, the consecrated ones brought forward the Rudra-force. The mortal, knowing, with firm placing of the measure, discovered Agni standing in the highest station.
आ । रोद॑सी॒ इति॑ । बृ॒ह॒ती इति॑ । वेवि॑दानाः॑ । प्र । रु॒द्रिया॑ । ज॒भ्रि॒रे॒ । य॒ज्ञिया॑सः । वि॒दत् । मर्तः॑ । ने॒मऽधि॑ता । चि॒कि॒त्वान् । अ॒ग्निम् । प॒दे । प॒र॒मे । त॒स्थि॒ऽवांस॑म् ॥आ । रोदसी इति । बृहती इति । वेविदानाः । प्र । रुद्रिया । जभ्रिरे । यज्ञियासः । विदत् । मर्तः । नेमधिता । चिकित्वान् । अग्निम् । पदे । परमे । तस्थिवांसम् ॥ā | rodasī iti | bṛhatī iti | vevidānāḥ | pra | rudriyā | jabhrire | yajñiyāsaḥ | vidat | martaḥ | nema-dhitā | cikitvān | agnim | pade | parame | tasthi-vāṃsam